|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.90. अध्यायः 090
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
युधिष्ठिरेणाश्वमेधसमापनानन्तरं राज्ञां यथोचितं संमानपूर्वकं स्वस्वदेशान्प्रति प्रस्थापनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
श्रपयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः।
तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः॥ 14-90-1(95023)
ततः संज्ञप्य तुरगंक विधिवद्याजकर्षभाः।
उपसंवेशयांचक्रुस्ततस्तां द्रुपदात्मजाम्।
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम्॥ 14-90-2(95024)
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजातयः।
श्रपयामासुरव्यग्रा विधिवद्भरतर्षभ॥ 14-90-3(95025)
तं वपाधूमगन्धं तु धर्मराजः सहानुजैः।
उपाजिघ्रद्यथासास्त्रं सर्वपापापहं तदा॥ 14-90-4(95026)
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप।
तान्यग्रौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः॥ 14-90-5(95027)
संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः।
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम्॥ 14-90-6(95028)
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि।
कोटीः सहस्रं निष्काणां व्यासाय तु वसुंधराम्॥ 14-90-7(95029)
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः।
अब्रवीद्भरतश्रेष्ठं धर्मराजं युधिष्ठिरम्॥ 14-90-8(95030)
वसुधा भवतस्त्वेषां संन्यस्ता राजसत्तम।
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिना॥ 14-90-9(95031)
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः।
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम्॥ 14-90-10(95032)
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता।
अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया॥ 14-90-11(95033)
वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम्।
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः॥ 14-90-12(95034)
नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः॥
इदं नित्यं मनो विप्रा भ्रातॄणां चैव मे सदा॥ 14-90-13(95035)
इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा।
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम्॥ 14-90-14(95036)
ततोऽन्तरिक्षे वागासीत्साधुसाध्विति भारत।
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः॥ 14-90-15(95037)
द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम्।
प्रोवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः॥ 14-90-16(95038)
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम्।
हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धराऽस्तु ते॥ 14-90-17(95039)
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम्।
यथाऽऽह भगवान्व्यासस्तथा त्वं कर्तुमर्हसि॥ 14-90-18(95040)
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह।
कोटिं कोटिं गवां प्रादाद्दक्षिणां त्रिगुणीकृताम्॥ 14-90-19(95041)
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः।
यत्कृतं कुरुराजेन मरुत्तस्यानुकुर्वता॥ 14-90-20(95042)
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनो मुनिः।
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते॥ 14-90-21(95043)
धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः।
दूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह॥ 14-90-22(95044)
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा।
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम्॥ 14-90-23(95045)
यज्ञवाटे च यत्किञ्चिद्धिरण्यं सवि भूषणम्।
तोरणानि च यूपांश्च घटान्पात्रीस्तथेष्टकाः।
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः॥ 14-90-24(95046)
अनन्तरं द्विजातिभ्यः क्षत्रिया जह्रिरे वसु।
तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः।
`कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः॥' 14-90-25(95047)
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्।
तर्पिता वसुना तेन धर्मिराजेन धीमिता॥ 14-90-26(95048)
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादितः।
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः॥ 14-90-27(95049)
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा।
चकार पुण्यकं तेन सुमहत्सङ्घशः पृथा॥ 14-90-28(95050)
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह।
सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव॥ 14-90-29(95051)
पाण़्डवाश्च महीपालैः समेतैरभिसंवृताः।
अशोभन्त महाराज ग्रहस्तारागणैरिव॥ 14-90-30(95052)
राजभ्योपि ततः प्रादाद्रत्नानि विविधानि च।
गजानश्वानलङ्कारान्त्रियो वासांसि काञ्चनम्॥ 14-90-31(95053)
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले।
विसृजञ्शुशुभे राजन्यथा वैश्रवणस्तथा॥ 14-90-32(95054)
आनीय च तथा वीरं राजानं बभ्रुवाहनम्।
प्रदाय विपुलं वित्तं गृहात्प्रास्थापयनत्तदा॥ 14-90-33(95055)
दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ।
स्वराज्येऽथ पितुर्धामान्स्वसुः प्रीत्या न्वयेशयत्॥ 14-90-34(95056)
नृपतींश्चैव तान्सर्वान्सुविभक्तान्सुपूजितान्।
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः॥ 14-90-35(95057)
गोविन्दं च महात्मानं बलदेवं महाबलम्।
तथाऽन्यान्वृष्णिवीरांश्च प्रद्युम्नाद्यान्सहस्रशः॥ 14-90-36(95058)
पूजयित्वा महाराज यथाविधि महाद्युतिः।
भ्रातृभिः सहितो राजा प्रास्थापरयदरिंदमः॥ 14-90-37(95059)
एवं बभूव यज्ञः स धर्मिराजस्य धीमतः।
बह्वन्नधनरत्नौघः सुरामैरेयसागरः॥ 14-90-38(95060)
सर्पिःपङ्का ह्रदा यत्र बभूवुश्चान्नपर्वताः।
रसालकर्दमा नद्यो बभूवुर्भरतर्षभ॥ 14-90-39(95061)
भक्ष्यखाण्डवरागाणां क्रियतां भुज्यतां तथा।
पशूनां वध्यतां चैव नान्तं ददृशिरे जनाः॥ 14-90-40(95062)
मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम्।
मृदङ्गशङ्खनादैस्च मनोरममभूत्तदा। 14-90-41(95063)
दीयतां भुज्यतां चापि तत्र शब्दो महानभूत्।
दीयतां दीयतां चेति दिवारात्रमवारितम्॥ 14-90-42(95064)
तं महोत्सवसंकाशं हृष्टपुष्टजनाकुलम्।
कथयन्ति स्म पुरुषा नानादेशनिवासिनः॥ 14-90-43(95065)
वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा।
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम्॥ ॥ 14-90-44(95066)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि नवतितमोऽध्यायः॥ 90 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-90-2 संज्ञप्य हिंसित्वा तुरगम्। तस्य समीपे तिसृभिः कलाभिः कलनाभिः मन्त्रद्रव्यश्रद्दाख्याभिरुपेतां द्रौपदीं उपसंवेशयां चक्रुः॥ 7-90-5 अङ्गानि हृदयजिह्वावक्षआदीनी॥ 7-90-6 संस्थाप्य समाप्य॥ 7-90-7 तुशब्दश्चार्थे। तेन सर्वेभ्यो वसुधरां ददावित्यर्थः॥ 7-90-25 अनन्तरं द्विजातिभ्यः विप्रेषु गृहीत्वा निवृत्तेषु शिष्टात् क्षत्रियादयो गहीतवन्त इत्यर्थः॥ 7-90-38 मैरेयं वृक्षजं मद्यम्॥ 7-90-40 पिप्पलीशुण्ठीयुक्तो मुद्गयूषः खाण्डवः स एव शर्कारयुक्तो रागः


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|